(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    


॥ श्रीः ॥
6.110. अध्यायः 110
Mahabharata - Bhishma Parva - Chapter Topics
अर्जुनदुःशासनयुद्धम् ॥ 1 ॥


Mahabharata - Bhishma Parva - Chapter Text

सञ्जय उवाच। 6-110-0x(4224)(43839)
अर्जुनस्तु रणे राजन्दृष्ट्वा भीष्मस्य विक्रमम् ।
शिखण्डिनमथोवाच समभ्योहि पितामहम् ॥ 6-110-1(43840)
न चापि भीस्त्वया कार्या भीष्मादद्य कथंचन ।
अहमेनं शरैस्तीक्ष्णैः पातयिष्ये रथोत्तमात् ॥ 6-110-2(43841)
सञ्जय उवच। 6-110-3x(4225)
एवमुक्तस्तु पार्थेन शिखण्डी भरतर्षभ ।
अभ्यद्रवत गाङ्गेयं श्रुत्वा पार्थस्य भाषितम् ॥ 6-110-3(43842)
धृष्टद्युम्नस्तथा राजन्सौभद्रश्च महारथः ।
हृष्टावाद्रवतां भीष्मं श्रुत्वा पार्थस्य भाषितम् ॥ 6-110-4(43843)
विराटद्रुपदौ वृद्धौ कुन्तिभोजस्य दंशितः।
अभ्यद्रवत गाङ्गेयं पुत्रस्य तव पश्यतः ।
नकुलः सहदेवश्च धर्मराजश्च वीर्यवान् ॥ 6-110-5(43844)
तथेतराणि सैन्यानि सर्वाम्येव विशांपते ।
समाद्रवन्त गाङ्गेयं श्रुत्वा पार्थस्य भाषितम् ॥ 6-110-6(43845)
प्रत्युद्ययुस्तावकाश्च समेतांस्तान्महारथान् ।
यथाशक्ति यथोत्साहं तन्मे निगदतः शृणु ॥ 6-110-7(43846)
चित्रसेनो महाराज चेकितानं समभ्यायात् ।
भीष्मप्रेप्सुं रणे यान्तं वृषं व्याघ्रशिशुर्यथा ॥ 6-110-8(43847)
धृष्टद्युम्नं महाराज भीष्मान्तिकमुपागतम् ।
त्वरमाणं रणे यत्तं कृतवर्मा न्यवरायत् ॥ 6-110-9(43848)
भीमसेनं सुसंक्रुद्धं गाङ्गेयस्य वधैषिणम् ।
त्वरमाणो महाराज सौमदत्तिर्न्यवारयत् ॥ 6-110-10(43849)
तथैव नकुलं शूरं किरन्तं सायकान्बहून् ।
विकर्णो वारयामास इच्छन्भीष्मस्य जीवितम् ॥ 6-110-11(43850)
सहदेवं तथा राजन्यान्तं भीष्मरथं प्रति।
वारयामास संक्रुद्धः कृपः शारद्वतो युधि ॥ 6-110-12(43851)
राक्षसं क्रूरकर्माणं भैमसेनिं महाबलम् ।
भीष्मस्य निधनप्रेप्सुं दुर्मुखोऽभ्यज्रवद्बली ॥ 6-110-13(43852)
सात्यकिं समरे क्रुद्धमार्स्यशृङ्गिवारयत् ।
`भीष्मस्य वधमिच्छन्तं पाण्डवप्रीतिकाम्यया' 6-110-14(43853)
अभिमन्युं महाराज यान्तं भीष्मरथं प्रति।
सुदक्षिणो महाराज काम्भोज प्रत्यवारयत् ॥ 6-110-15(43854)
विराटद्रुपदौ वृद्धौ समेतावरिमर्दनौ ।
अश्वत्थामा ततः क्रुद्धो वारयामास भारत ॥ 6-110-16(43855)
तथा पाण्डुसुतं ज्येष्ठं भीष्मस्य वधकाङ्क्षिणम् ।
भारद्वाजो रणे यत्तो धर्मपुत्रमवारयत् ॥ 6-110-17(43856)
अर्जुनं रभसं युद्धे पुरस्कृत्य शिखण्डिनम् ।
भीष्मप्रेप्सुं महाराज भासयन्तं दिशो दश ॥ 6-110-18(43857)
दुःशासनो महेष्वासो वारयामास संयुगे।
अन्ये च तावका योधाः पाण्डवानां महारथान् ॥ 6-110-19(43858)
भीष्मस्याभिमुखान्यातान्वारयामासुराहवे ।
धृष्टद्युम्नस्तु सैन्यानि प्राक्रोशंस्तु पुनः पुनः ॥ 6-110-20(43859)
अभ्यद्रवत संरब्धो भीष्ममेकं महारथः ।
एषोऽर्जुनो रणे भीष्मं प्रयाति कुरुनन्दनः ॥ 6-110-21(43860)
अभ्यद्रवत माभैष्ट भीष्मो हि प्राप्स्यते न वः ।
अर्जुनं समरे योद्धुं नोत्सहेतापि वासवः ॥ 6-110-22(43861)
किमु भीष्मो रणे वीरा गतसत्वोऽल्पजीवितः।
इति सेनापतेः श्रुत्वा पाण्डवानां महारथाः ॥ 6-110-23(43862)
अभ्यद्रवन्त संहृष्टा गाङ्गेयस्य रथं प्रति।
आगच्छतस्तान्समरे वार्योघानचला इव ॥ 6-110-24(43863)
अवारयन्त संहृष्टास्तावकाः पुरुषर्षभाः ।
दुःशासनो महाराज भयं त्यक्त्वा महारथः ॥ 6-110-25(43864)
भीष्मस्य जीविताकाङ्क्षी धनञ्जयमुपाद्रवत् । 6-110-26bतथैव पाण्डवाः शूरा गाङ्गेयस्य रथं प्रति ॥ 6-110-26(43865)
अभ्यद्रवन्त संग्रामे तव पुत्रान्महारथाः ।
तत्राद्भुतमपश्याम चित्ररूपं विशांपते ॥ 6-110-27(43866)
दुःशासनरथं प्राप्य यत्पार्थो नात्यवर्तत ।
यथा वारयते वेला क्षुब्धतोयं महार्णवम् ॥ 6-110-28(43867)
तथैव पाण्डवं क्रुद्धं तव पुत्रो न्यवारयत्।
उभौ तौ रथिनां श्रेष्ठावुभौ भारतदुर्जयौ ॥ 6-110-29(43868)
उभौ चन्द्रार्कसदृशौ कान्त्या दीप्त्या च भारत।
तथा तौ जातसंरम्भावन्योन्यवधकाङ्क्षिणौ ॥ 6-110-30(43869)
समीयतुर्महासङ्ख्ये मयशक्रौ यथा पुरा।
दुःशासनो महाराज पाण्डवं विशिखैस्त्रिभिः ॥ 6-110-31(43870)
वासुदेवं च विंशत्या ताडयामास संयुगे।
ततोऽर्जुनो जातमन्युर्वार्ष्णेयं वीक्ष्य पीडितम् ॥ 6-110-32(43871)
दुःशासनं शतेनाजौ नाराचानां समार्पयत्।
ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे ॥ 6-110-33(43872)
` यथैव पन्नगा राजंस्तटाकं तृषितास्तथा।'
दुःशासनस्त्रिभिः क्रुद्धः पार्थं विव्याध पत्रिभिः।
ललाटे भरतश्रेष्ठ शरैः सन्नतपर्वभिः ॥ 6-110-34(43873)
ललाटस्थैस्तु तैर्बाणैः शुशुभे पाण्डवो रणे।
यथा मेरुर्महाराज शृङ्गैरत्यर्थमुच्छ्रितैः ॥ 6-110-35(43874)
सोऽतिविद्धो महेष्वासः पुत्रेण तव धन्विना।
व्यराजत रणे पार्थः किंशुकः पुष्पवानिव ॥ 6-110-36(43875)
दुःशासनं ततः क्रुद्धः पीडयामास पाण्डवः।
पर्वणीव सुसंक्रुद्धो राहुः पूर्णं निशाकरम् ॥ 6-110-37(43876)
पीड्यमानो बलवता पुत्रस्तव विशांपते ।
विव्याध समरे पार्थं कङ्कपत्रैः शिलाशितैः ॥ 6-110-38(43877)
तस्य पार्थो धनुश्छित्वा रथं चास्य त्रिभिः शरैः ।
आजघान ततः पश्चात्पुत्रं ते निशितैः शरैः ॥ 6-110-39(43878)
सोऽन्यत्कार्मुकमादाय भीमस्य प्रमुखे स्थितः।
अर्जुनं पञ्चाविंशत्या बाह्वोरुरसि चार्पयत् ॥ 6-110-40(43879)
तस्य क्रुद्धो महाराज पाण्डवः शत्रुतापनः ।
अप्रैषीद्विशिखान्घोरान्यमदण्डोपमान्बहून् ॥ 6-110-41(43880)
अप्राप्तानेव तान्बाणांश्चिच्छेद तनयस्तव ।
यतमानस्य पार्थस्य तदद्भुतमिवाभवत् ॥ 6-110-42(43881)
पार्थं च निशितैर्बाणैरविध्यत्तनयस्तव ।
ततः क्रुद्धो रणे पार्थः शरान्संधाय कार्मुके ॥ 6-110-43(43882)
प्रेषयामास समरे स्वर्णपुङ्खाञ्छिलाशितान् ।
न्यमञ्जंस्ते महाराज तस्य काये महात्मनः ॥ 6-110-44(43883)
यथा हंसा महाराज तटाकं प्राप्य भारत।
पीडितश्चैव पुत्रस्ते पाण्डवेन महात्मना ॥ 6-110-45(43884)
हित्वा पार्थं रणे तूर्णं भीष्मस्य रथमाव्रजत्।
अगाधे मञ्जतस्तस्य द्वीपो भीष्मोऽभवत्तदा ॥ 6-110-46(43885)
प्रतिलभ्य ततः संज्ञां पुत्रस्तव विशांपते ।
अवारयत्ततः शूरो भूय एव पराक्रमी ॥ 6-110-47(43886)
शरैः सुनिशितैः पार्थं यथा वृत्रं पुरन्दरः।
निर्बिभेद महाकायो विव्यथे नैव चार्जुनः ॥ ॥ 6-110-48(43887)

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि दशमदिवसयुद्धे दशाधिकशततमोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-110-18 रभसं कृतोत्साहम् ॥ 6-110-24 प्रलयानिव इति पाठे प्रलयाकालीनानिव॥ 6-110-27 अद्भुतं अभूतपूर्वम् ॥ 6-110-31 यमशक्रौ इति पाठान्तरम् ॥ 6-110-41 अप्रैषीत्। उपसर्गात्पूर्वोऽडगामस्तु छान्दसः। एवमन्यत्रापि ॥ 6-110-46 द्वीप आश्रयः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.